________________
२६८२
विश्वामित्रस्मृतिः
॥भूशुद्धिः॥ भूशुद्धयाधारशुद्धिं च विलिखेद्गुरुमार्गतः । शुद्धो भूमौ लिखेद्यन्त्रं प्रणवादिषडक्षरैः ।।३।। आधाराख्यं च संप्रोक्तं प्रार्थयेत्पृथिवीमिमाम् । अपसर्पन्तु ये भूता ये भूता दिवि संस्थिताः ॥४॥ ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । पृथिवि(थ्वि)त्वया धृता लोका देवि त्वं विष्णुनाधृता ॥१॥ त्वं च धारय मां देवि पवित्रं कुरु चासनम् । प्रणवाद्यश्च षड्वर्णैर्दशवाराभिमन्त्रितम् ॥६॥ शुद्धभूमौ जलं प्रोक्ष्य विलिखेद्यन्त्रमुत्तमम् । त्रिकोणाग्रे वह्निबीजं मध्ये मायां सविन्दुकम् ॥ ७॥ युतं तन्त्रं जपस्थाने लिखेत्क्रमात् । चतुरनं हस्तमानं सुदृढं मृदु निर्मलम् । तस्योपरि समासीनो गायत्रीजपमाचरेत् ॥ ८॥ कृत्वा मूलेन भूशुद्धिं भूतशुद्धिं समाचरेत् । शोषदाहप्लवं कुर्यात् प्रणवादिषडक्षरैः ॥६॥ पार्थिवं शतमेकं च वकारं द्विशतं तथा । त्रिशतं वह्निबीजं च वायुबीजं चतुश्शतम् ॥१०॥ आकाशं पञ्चशतकं भूतशुद्धिरिति क्रमात् । प्रणवादि नमोऽन्तं च वृद्धिरेकोत्तरं शतम् ॥११॥ प्राणायामं च पञ्चाणैः कुर्याद्भभूतशोधनम् । मूलाधारं समारभ्य गायत्री तुर्यया सह ।।१२।।