________________
२६८०
विश्वामित्रस्मृतिः सर्वताते शं तोकाय तनयाय शंयोः। आपस्तम्बस्य यः प्राणतो-मेति मध्याह्न। उत्के तदभश्रुत् । मघं वृषभं न सूर्यापनं अस्तारमेषि सूर्य । आपस्तम्बस्य य आत्मदामेति । सायाह्न । पुननववारं प्राणानायम्य पञ्चोपचारैरभ्यर्च्य असुरवधप्रायश्चित्तार्थ चतुर्थाय॑प्रदानं करिष्ये इति सङ्कल्प्य वाग्भवकामराजशक्तिबीजसहितं विलोमगायत्रीसहितं शिरःशिखासहितं सतुरीयं चतुर्थाध्यं दद्यात् । पुनर्नववारंप्राणानायम्य पञ्चोपचारमभ्यर्च्य । अस्य श्री अस्त्रोपसंहारमन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः विलोमगायत्री देवता ब्रह्म बीजं ह्रीं शक्तिः हूं कीलकम् अस्त्रोपसंहरणार्थे विनियोगः । अघोरास्त्राय शायि नाराचाय सुदर्शनाय हां धियो यो नः अङ्गुष्ठाभ्यां नमः। अघोरादि चतुष्टय परियुक्त तर्जनीभ्यां शिरसे स्वाहा। अघोरादिचतुष्टयसहितं हूं मध्यमाभ्यां वषट् । अघोरादिचतुष्टयसहितं हूँ भर्गो देवस्य ओं अनामिकाभ्यां हम् । अघोरादिचतुष्टय सहितं हें वरेण्यं ह्रीं कनिष्ठिकाभ्यां वौषट् । अघोरादिचतुष्टयसहितं तत्सवितुरों करतलकरपृष्ठाभ्यां हफटः। एवं हृदयादिन्यासः। ओं भूर्भुवःसुवरोमिति दिग्बन्धः। .
ध्यानम्