________________
प्रायश्चित्ताय॑विधिवर्णनम् २६७७
शीर्षचेति मनुत्रयम् । पर्यायेण समुच्चार्य पिबेदञ्जलिना जलम् । विलोमेन च गायत्रीं बीजयुक्तां सतुर्यकाम् ॥२८॥ शिरसा शिरसा युक्त चतुर्धाध्यं विनिक्षिपेत् । अस्त्रदण्डशिरोयुक्त हंसमन्त्रं समुच्चरेत् ॥२६॥ शस्त्रवाहनरक्षोघ्नं एकाञ्जलिजलं क्षिपेत् । प्रायश्चित्तद्वितीयाय॑मसुराणां वधाय च ॥३०॥ प्रदक्षिणं चरेत्पृथ्ख्याः सर्वपापैः प्रमुच्यते । हंसस्येति मनुं विप्रो ब्रह्मदत्तं समाचरेत् ॥३१॥ शिरोदण्डास्त्र(संयुक्त निक्षिपेद्रविसंमुखे। उपमन्त्रं वदन् पूर्वमस्त्रदण्डंशिरस्तथा ॥३२॥ चतुर्मन्त्रं सम्यगुच्चार्य अर्घ्यमेकं विनिक्षिपेत् । उपमन्त्रं समुच्चार्य शिरोऽन्तं श्रेयसंयुतम् ॥३३॥ अर्ध्यमेकं तु मध्याह्न सत्यमुक्त महामुने । तर्जन्यपृष्ठसंयोगो राक्षसी मुद्रिका भवेत् ॥३४।। राक्षसीमुद्रिकादत्तं तत्तोयं रुधिरं भवेत् । निक्षिपेद्यदि मूढात्मा रौरवं नरकं व्रजेत् ॥३।। अगुष्ठच्छायया तोयं देवतामुद्रिका भवेत् । (इत्थं करणेन लोकस्य ) सर्वपापक्षयो भवेत् । एवं विज्ञाय यो दद्यादयं सम्यक्सुधीरितम् ॥३६।। अन्तरिक्षमथो स्वाहा आपश्शुन्धन्तु मैनसः । इति मन्त्रेण यो भागे मार्जयित्वाचमेत् ॥३७॥