________________
२६७६
विश्वामित्रस्मृतिः असुराणां वधार्थाय अयंकाले द्विजन्मनाम् । प्रोक्तं ब्रह्मास्त्रमेतद्व सन्ध्यावन्दनकर्मसु ॥१८॥ कर्मार्थ काममोक्षादि ब्रह्मास्त्रेणैव लभ्यते । ब्रह्मदण्डं तथा वक्ष्ये सर्वशस्त्रास्त्रनाशनम् ॥१६॥ गायत्रीं सम्यगुच्चार्य परोरजसि संयुतम् । एतद्वः ब्रह्मदण्डं स्यात्सर्वशस्त्रास्त्रभक्षणम् ॥२०॥ सर्ववाहननाशार्थ वच्म्यस्त्रं ब्रह्मशीर्षकम् । गायत्री पूर्णमुच्चार्य मूलमन्त्रं ततो वदेत् ॥२१॥ ब्रह्मशीर्षकमेतद्धि सर्ववाहननाशनम्। आधारादि समुद्धृत्य सुषुम्नामार्गनिर्गमे ॥२२॥ सम्यगाचम्य तां देवं ब्रह्मब्रह्माण्डभेदिनीम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥२३॥ परमात्मेति गायत्रीमनुलोमक्रमान्न्यसेत् । अघोरास्त्राय शाोय नाराचाय सुदर्शन ॥२४॥
प्रतिलोमक्रमान्यसेत् ।
॥प्रायश्चित्ताय॑म् ।। एकं मध्याह्नकाले च प्रायश्चित्तार्थ्यमुच्यते । अर्घ्यद्वयं तु मध्याह्न तथ्यमेतन्महामुने ॥२॥ अर्घ्यत्रयप्रयोगार्थ प्रायश्चित्तं चतुष्टयम् । सायंप्रातर्द्विजातीनामेवमेष विधिः क्रमात् ॥२६।। ब्रह्मास्त्रं ब्रह्मदण्डं च ब्रह्मशीर्ष तथैव च । अयंत्रयप्रयोगार्थमेवमेतदुदाहृतम् ॥२७॥