SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ गायत्रीमाहात्म्यवर्णनम् २६७५ तस्य कर्मादिकं ज्ञानं तत्सवं निष्फलं भवेत् । बीजमन्त्रं तु गायत्र्याः प्राण इत्यभिधीयते ॥७॥ देहस्तु पिण्ड इत्युक्तो संज्ञाकवच एव हि । सर्वाङ्गानि पदो मन्त्रः सर्वमन्त्रेष्वयं विधिः ॥८॥ अस्त्रं वृष्टिरिति प्रोक्त गायत्रीन्याप्तिरुच्यते । एतत्षण्मन्त्रकं ज्ञात्वा दद्यादयं विधानतः ॥६॥ प्रणवो बीजमन्त्रः स्याद् गायत्र्यास्सर्वदा मतः । पिण्डमन्त्रं तुरीयं स्याद्गायत्रीसंज्ञितं परम् ॥१०॥ नारायणं मूलमन्त्रं संज्ञामन्त्रं भवेत्सदा । ओमापो ज्योतिरित्येतत्पदमन्त्रमितीरितम् ॥१॥ ओं तत्सवितुरित्येषा गायत्रीहन्महामुने । एतदेव हि गायत्री विप्राणां मुक्तिदायिनी ॥१२॥ ब्रह्मास्त्रं बीजमित्याहुः शर्म स्याद्ब्रह्मदण्डकम् । कीलकं ब्रह्मशीर्ष स्यादृष्यादिन्यासपूर्वकम् ॥१३॥ भान्तं वह्निसमायुक्त व्योमानलसमन्वितम् । मेषद्वयं दन्तयुक्त हालाहलमतः परम् ॥१४॥ खनाद्य वायुपूर्व स्याहत्तयुग्ममथापरम् । सरसामक्षपर्यायहान्तं भूर्भु (वस्त मतः परम् ॥१॥ अम्बरं वायुसंयुक्त अरिं मर्दय मर्दय । प्रज्वलेति द्विरुच्चार्य परमेतत्परं ततः ॥१६॥ तत्रिपादं प्रयोक्तव्यं गायत्रीमध्यमन्त्रतः। पदत्रयं प्रयोक्तव्यमेतद्ब्रह्मस्मृतीरितम् ॥१७||
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy