________________
२६७४
विश्वामित्रस्मृतिः सर्वपापविनिमुक्तः स्पृष्ट्वा (स्पृष्टा) स्पृष्टिर्न विद्यते । इति विश्वामित्रस्मृतौ मार्जनयोगोनाम
चतुर्थोऽध्यायः ।
अथ पञ्चमोऽध्यायः सार्घ्यदानगायत्रीमाहात्म्यवर्णनम्
॥ अर्घ्यदानम् ॥ सन्ध्यावन्दनवेलायां दद्यादय॑त्रयं द्विजः । सायंप्रातः समानस्यान्मध्याह्न तु पृथविक्रया ॥१॥ एकं मध्याह्नकाले च सायंप्रातस्त्रयस्त्रयः । एवं ज्ञात्वा त्यजेदध्य लुप्तनक्षत्रपूर्वकम् ॥२॥ एकं शस्त्रास्त्रनाशाय चिरं वाहननाशने ।। असुराणां वधायकं दद्यादयंत्रयं क्रमात् ॥३॥ असुराणां वधादूध्वं प्रायश्चित्ताऱ्याकं परम् । पृथ्वीप्रदक्षिणं कृत्वा सर्वपापैः प्रमुच्यते ॥४॥ सन्ध्यावन्दनवेलायां प्रायश्चित्ताय॑मीरितम् । दद्यात्केवलगायत्र्या मूढो ह्ययं तु यो द्विजः ॥१॥ स वै दुर्भाह्मणो नाम सर्वकर्मबहिष्कृतः । ब्रह्मास्त्रं यो न जानाति स विप्रशूद्र एव हि ॥६॥