SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ मार्जनविधानवर्णनम् २६७३ एकविंशति मूर्ध्नित्यात् त्रि(पादो)भुवि मार्जयेत् । अगुष्ठाजलमादाय मन्त्रान्ते मार्जनं यजेत् ।।१८।। पादौ भूमौ त्रिवारं स्यान्मूनि स्यादेकविंशतिः। अष्टाक्षरं नवपदं पादादौ ब्रह्महा भवेत् ॥१६॥ पादान्ते मार्जनं कुर्यादश्वमेधफलं लभेत् । रजस्सत्त्वं तमोजातं मनोवाकायजं तथा ॥२०॥ जाप्रत्स्वनसुषुप्त्यर्थं नवैतान्नवभिर्दहेत्। नवप्रणव युक्तन आपोहीतित्यूचेन च ॥२॥ संवत्सरकृतं पापं पुनर्मार्जनतो दहेत् । शन्नोदेवी समारभ्य षड्भिश्चाथोसुवोऽन्तकैः ॥२२॥ अरिषड्वर्गपापानि नाशयेन्मार्जनानि च । अप्सुमे च समारभ्य ज्योक्चसूर्यान्तमार्जनम् ॥२३॥ इदमापस्समारभ्य ऋषभं मेहन्तमार्जनम् । पयस्वानन आरभ्य(भुवे) हुवेऽन्तं मार्जनं तथा ॥२४॥ ऋतं च सत्यमारभ्य अन्तरिक्षमथो सुवः। पर्यन्तं मार्जयेद्भूमौ गृह्योक्तविधिना द्विजः ॥२१॥ इत्येवं मार्जनं कृत्वा. सन्ध्यावन्दनमाचरेत् । मन्त्रलिङ्गं विना प्रोक्त (पूर्व)मार्जनं यः करोति हि ॥२६॥ तस्य पापमगण्यं स्यान्मार्जनं निष्फलं भवेत् । मन्त्रलिङ्गं यथाशास्त्रं मार्जनं परिकल्पयेत् ॥२७॥ १६८
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy