SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २६७२ विश्वामित्रस्मृतिः जाग्रत्स्वप्नसुषुप्त्याथ नवैतान्नवभिर्दहेत् । दधि द्विमार्जनं मन्त्रं हिरण्यादिचतुष्टयम् ॥७॥ कामक्रोधादिषड्वर्ग यद्यत्सवं विनाशनम् । पादमन्त्रं चाय॑मन्त्रं पूर्णमन्त्रं विशेषतः ॥ ८॥ सर्वेषामेव वर्णानां त्रिविधं मार्जनं यजेत् । चतुर्विंशति गायत्री वर्णसंख्यानुसारतः ॥६॥ ऋक्शाखोक्तन मार्गेण मार्जनानि समाचरेत् । ऋग्यजुस्सामशाखानामेवं मार्जनलक्षणम् ॥१०॥ आश्वलायनशाखानां मार्जनक्रम उच्यते । आपो हिष्ठादिनवकं शंनोदेवी द्विमार्जनम् ॥११॥ अप्सुमे त्रीणि चोक्तानि भृतं चेत्येवमेव हि । त्र्यचस्य च नवर्चस्य अब्लिङ्गं द्विविधं भवेत् ॥१२॥ पादादौ प्रणवं चोक्त्वा पादान्ते मार्जयेद्विजः । ऋतं च मन्त्रस्यादौ च मार्जनानि समाचरेत् ।।१३।। शन्नो देवी समारभ्य गायत्री शिरसः क्रमात् । मृगादौ प्रणवञ्चोक्त्वा मार्जनम्परिकल्पयेत् ।।१४।। अप्सुमे च समारभ्य भुवैन्तं मार्जनत्रयम् । तत्रापि प्रणवं चोक्त्वा माजेनानि समाचरेत् ।।१६।। सुरान्तं मार्जयेद्भूमौ चतुर्विंशतिमार्जनम् । पादशोऽष्टादशोक्तानि त्रिपदाभ्यां द्विमार्जने ॥१७॥ षड्विधे क्रमशस्त्रीणि ऋक्त्रयेणैव मार्जनम् । यस्य क्षयाय च पदोअधोऽध्वं भुवि निक्षिपेत् ॥१८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy