SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २६७१ मार्जनविधिवर्णनम् तारं त्रिलोकं त्रिशतं तुरीयं सव्यापसव्यावदनस्य रोधम् ॥७६।। इति विश्वामित्रस्मृतौ प्राणायामविधानं (विधियोगे) नाम तृतीयोऽध्यायः। अथ चतुर्थोऽध्यायः मार्जनम् पादं पादं क्षिपेन्मूर्धा प्रीतिप्रणवसंयुताम् । निक्षिपेदष्टपादं तु अधो यस्य क्षयाय च ॥१॥ अष्टाक्षरं नवपदं पादादौ ब्रह्महा भवेत् । पादान्तं मार्जनं कुर्यादश्वमेधफलं लभेत् ॥२॥ यस्य क्षयाय पादं तु आपश्शुन्धन्तु यत्पदम् । भूमौ पदो विनिक्षिप्य इतरं मूर्ध्निचाचरेत् ॥३।। पादादौ प्रणवं चोक्त्वा पादान्ते मार्जनं भवेत् । ऋगादौ प्रणवं चोक्त्वा मृगन्त(न्ते) मार्जनं भवेत् ॥४॥ आपोहीति द्विनवकं . दधिमात्रे द्विमार्जनम् । अगुष्ठेनोदकं स्पृष्ट्वा पादमात्रेण मार्जयेत् ॥५॥ अर्धमन्त्रं पूर्णमन्त्रं मार्जनं द्विविधं विदुः । रजस्सत्त्वतमोजातान् मनोवाकायजांस्तथा ॥६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy