________________
२६७०
विश्वामित्रस्मृतिः
वैश्वदेवं प्रकुर्वीत दशपूर्वान् दशापरान् ।
यत्र यत्रैव सङ्कल्पः तत्र तत्र द्वयान्वितम् ||६६||
.
प्राणायामं प्रकुर्वीत दशपूर्वान् दशापरान् । गर्भाधानं समारभ्य आधानान्तं विधीयते ॥ ७० ॥ विक्रीणीते परार्थं यो जपं वै दैवतार्चनम् । परार्थं प्रतिघातं च कुर्याद्दुर्ब्राह्मणं विदुः ॥७१॥ प्रमादेनाप्रयत्नेन कदाचितक्रियते यदि ।
अनुलोम विलोमाभ्यां मन्त्रराजं शतावधि ॥७२॥ दशप्रणव गायत्री द्विषट्कं प्राणरोधनम् । वर्णमाला जपेन्मत्रं शान्तिपाठं समाचरेत् ॥७३॥
अनृतवचनदोषं दुष्टसंसर्गदोषं
अविहितकृतदोषं दुदु रान्नादिदोषम् ।
अहमिति दुरहं चासद्विजानामयूयं (थं ) हरति सकलदोषं मन्त्रराजो विलोमः ||७४ ||
स्नानं सन्ध्या मुक्तकाले द्विजो यः कुर्यान्नित्यं सर्वदोषं निहन्यात् ।
त्रयस्त्रिंशत्कोटिदेव प्रभावः
तेनावश्यं प्राप्यते सद्विवेकः ॥७५॥
!
शतं त्रिलोकं त्रिशतं त्रिलोकं
पादं त्रिलोकं त्रिपदं त्रिलोकम् ।