________________
२६६८
विश्वामित्रस्मृतिः दशप्रणवगायत्रीमनुलोमविलोमतः। स्मरन् शतद्वयं सम्यक्प्राणायाम समाचरेत् ॥४॥
अविहितकृतदोषं राजसेवातिदोषं . करकृतमपिदोषं क्रूरकर्मादिदोषम् । हृदिकृतपरदोषं पापसंसर्गदोषं
हरति सकलदोषं मन्त्रराजं(जो)विलोमम्(मः)।।४६ ब्रह्महत्यादिपापानि अगम्यागमनादिकम् । अभोज्यभोजनादीनि अग्राह्यग्रहणादिकम् ।।१०।। तत्सर्वं नाशमाप्नोति पूर्वोक्तर्वायुरोधनैः । किमत्र बहुनोक्तने मन्त्रराजोऽमितप्रदः ॥५।। दशप्रणवगायत्र्या विनियोगरतो(हतो)द्विजः । प्राणायाममकुर्वाणो अवकीर्णी भवेत्तु सः ॥५२।। सर्वाण्यसंभावितानि विपरीतान्यनेकशः। नियमेन कृतैः काले प्राणायामैळपोहति ॥५३।। मन्त्रराजं चतुष्षष्टिं द्वात्रिंशञ्चतदर्धकम् । तदर्धमधमं ज्ञेयं प्राणायामं समाचरेत् ॥५४|| मन्त्रराज पराधं च प्राणायामं करोति यः। तस्य निष्फलितं मन्त्रं पुनस्संस्कारमहति ॥५५।। पष्टिवर्णात्मकं मन्त्रं पराधं यो निरोधयेत् । इह जन्मनि शूद्रत्वं जन्मन्यग्र वियोनिजः ॥५६।। अनुक्तविधिनामन्त्रं प्राणायामं करोति यः। तस्यायुष्यविनाशाय जन्मनीह दरिद्रता ॥५७।।