________________
पञ्चपूजाविधिवर्णनन्
२६ ६५ नन्द दृष्टि समानास्ति प्राणवायुनिरोधने । अन्तश्चक्षुर्बहिस्तेजो अधस्थाप्य सुखासनं । । कृत्वा(शा साम्यं शरीरस्य प्राणायामं समाचरेत् ।।२०।। सर्वेषामेव जन्तूनां कर्तव्यं सुखमासनम् । तत्रापि मानसः श्रेष्ठ स्तत्रापि द्विज उच्यते ॥२१॥ सन्ध्या प्राचैव ध्येया च वनस्थस्य तथैव हि । सम्यक्पञ्चांगुलीभिश्च बद्ध्वा नासापुटं गृही। शनैश्शनैश्च निश्शब्दं प्राणायाम समाचरेत् ॥२२॥ पञ्चांगुलीभिर्नासां च बद्ध्वा वायु निरुध्य च । आकृष्यधारयेदग्नि प्राणायाम समभ्यसेत् ॥२३॥ प्राणायाम तथा ज्ञात्वा स्नापयेञ्चिन्मयं शिवम् । तदादौ मानसं कुर्यात्सम्यक्केवलकुम्भकम् ॥२४॥ पञ्चभूतात्मिकां चैव पूजांमानसिकी स्मरेत् । पूजामानससंयुक्तः प्राणायामफलं लभेत् ॥२।। पञ्चपूजां विना यस्तु प्राणायामं करोति चेत् । तस्य निष्फलितं कर्म विश्वामित्रेण भाषितम् ।।२६।। लकारश्वभकारश्च(हकारश्च)यकारो रेफ एव च । वकार(चकार) इति पञ्चैते वर्णाः पश्चार्चनोदिताः ॥२७॥ लं पृथिव्यात्मने गन्धान हमाकाशात्मने सुमम् । य वाय्वात्मने धूपं दीपमग्न्यात्मने चरम् ॥२८॥ निवेदयेच्च नैवेद्य वकारममृतात्मने । पञ्चभूतात्मिकामेतां पूजां मानसिकी यजेत् ॥२६||