________________
अथ तृतीयोऽध्यायः प्राणायामविधिवर्णनम्
॥ प्राणायामः॥ देहिनां चैव सर्वेषां देहे ध्यानं समंन्यसेत् । तत्रापि द्विजवर्णानां प्राणायाम समं न्यसेत् ।। १॥ प्राणायामत्रयं प्रातः सन्ध्याकाले समाचरेत् । प्राणापानसमायुक्त प्राणायाम इति स्मृतम् ॥२॥ उत्तमं नवधा चैव षोढा मध्यममुच्यते । अभिमन्त्रीयमित्याहुः प्राणायामस्य लक्षणम् ॥ ३॥ सप्तव्याहृतिभिश्चापि प्रणवादिरनुक्रमात् । गायत्र्या शिरसा चैव प्राणायामो विधीयते ॥४॥ बिन्दुप्राणविसगैक्यं गायत्रं बिन्दुसंहितम् । शिरोव्याहृतिसंयुक्त प्राणायामे स्पृशेत्तथा(त्रिशस्त्रिधा) ॥५॥ आदौ कुम्भकमाश्रित्य रेचपूरकवर्जितम् । व्याहृत्यादिशिरोऽन्तं च प्राणायाम समाचरेत् ॥ ६॥ नित्ये नैमित्तिके काम्ये सर्वदा सर्वकर्मसु । आदौ कुम्भकमाश्रित्य रेचपूरे विसर्जयेत् ॥७॥ सन्ध्याकाले होमकाले ब्रह्मयज्ञे तथैव च । आदौ कुम्भकविज्ञेयमाश्रित्य)प्राणायाम समाचरेत् ।।८।। प्राणापानसमानबिन्दुसहितं बन्धत्रये संयुतं । सप्तव्याहृतिबिन्दु संपुटपरं देवादिपादत्रयम् ॥६॥