________________
पञ्चाचमनविधिवर्णनम्
२६६१ सप्तव्याहृतयश्चैव नवपादं त्रिपादकम् । चतुर्विंशतिपादानि न तत्स्थानेषु विन्यसेत् ॥४।। त्रीण्यादौ नव सप्तधा त्रीणिद्वे च श्रुतीरितम् । गायत्री(मुच्चरन् )बद्ध्वापोहिष्ठा नवभिः स्पृशेत् ॥४२।। सप्तव्याहृतिभिश्चैव गायत्रीत्रिपदैः स्पृशेत् । शिरः पदा तु व्यपदा चतुर्विंशतिभिः स्पृशेत् ॥४३॥ श्रुत्याचमनमेतद्धि विश्वामित्रादिभिः स्मृतम् । नाम वणं च पादं च भूर्भुवः (स्व) रोमिति ॥४४॥ पञ्चाचमनं चैतानि प्रोक्त स्वच्छन्दसां गणैः । तिसृभिश्च व्याहृतिभिः शिरश्चक्षू षि नासिके ।।४।। श्रोत्रद्वयं च हृदये संस्पृशेञ्चाथ वारिणा ।
॥ आचमनम् ।। त्रिराचामेदिति त्रेधा परिमृद्वति च त्रिधा । एकः सकृदुपस्पृशेदित्येवं श्रुतिचोदितम् ॥४६॥ ब्रह्मयज्ञे त्रिधाचामेच्छ तिस्मृतिपुराणकैः । द्विया परिमृज्यात्र ताल्वोहस्तेन मार्जयेत् ।।४७।। सकृजलं तु प्रणवेनांगुष्ठ नोपस्पृशेत् ।। अन्याः कुल्योपसंस्पृष्टाः निष्फलं कर्म तद्भवेत् ।।४८।। चतुर्विंशति पादानि चतुर्विशति वर्णकम् । चतुर्विंशतिनामानि त्रिधाचामेद्यथाविधि ॥४॥ तथा द्विः परिमृज्येति चन्द्रसूर्यो स्वरौ स्पृशेत् । उपस्पृशेत्सुषुम्ना च ब्रह्मयज्ञे सकृजनैः ॥१०॥