________________
२६५८
विश्वामित्रस्मृतिः गोकर्णाकृतिरित्याहुः ब्राह्मकर्म प्रकीर्तितं । हस्तमध्यस्थ सलिलं पीतशेषं न संत्यजेत् ॥११॥ कचित्त्यागं क्वचित्तानं कुर्यादुर्ब्राह्मणं विदुः । केशवादित्रयेणापो माषदनं पिबेत्क्रमात् ॥१२॥ गोविन्दमग्रतोन्यस्य सौषुम्ने विष्णुमेव च । मधुसूदनमादित्ये सुधांशौ च त्रिविक्रमं ॥१३।। अग्रतो वामनं चैव श्रीधरं हस्तयोस्तथा । हृषीकेशं पद्मनाभं उभयोः पादयोन्यसेत् ॥१४॥ दामोदरं ब्रह्मरन्ध्र नामसंकर्षणस्य च । न्यसेद्वा नासिकामध्ये चास्यान्ते वा विनिर्दिशेत् ॥१५॥ विन्यसेदक्षनासायां वासुदेवं तथैव च । प्रद्युम्नं विन्न्यसेवामे अनिरुद्धं तु दक्षिणे ॥१६।। पुरुषोत्तमं वामनेत्रे दक्षकर्णे ह्य) अधोक्षजम् । . नारसिहं वामकर्णे नाभावच्युतमेव वा ॥१५|| जनार्दनं हृदि न्यस्य ब्रह्मरंन्ध्रत्युपेन्द्रकं । विन्न्यसेच हरिं कृष्णं भुजे दक्षे च वामके ॥१८॥ पौराणं स्मार्तमित्येतत् क्षत्रियाणां विधीयते ॥१६।। परित्वागिर्वणोगिर इमा भवन्तु विश्वतो। वृद्धायुमनुवृद्धयो तुष्टाभवन्तु जुष्टयः ॥२०॥ पुण्यस्त्रीणां तथा ज्ञेयं शूद्राणां नाममात्रकं । शुद्धाचमानां त्रिविधं प्रकारं
कुर्यात्रिसंध्यापि(मु) समस्तकर्मसु ।
11