SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयोऽध्याय __ आचमनविधिवर्णनम जलमध्ये वामकरे दक्षिणे कर्णवत्कृती । आदौ गुरु नमस्कृत्य पश्चादाचमनं चरेत् ॥ १॥ प्रागाचामेदमृतस्यात् सोम्यायां सोमपाभवेत् । पश्चान्मुखोरक्तपास्यात् सुरापो(पी)दक्षिणामुखः ॥ २ ॥ चतुर्विंशतिनामानि तत्तदंगानि संस्पृशेत् । विन्यसेत्केशवादीनि पौराणाचमनं भवेत् ॥३॥ तकारादियकारान्तैः चतुर्विंशति वर्णकैः । संस्पृशेत्तत्तदंगानि स्मार्तमाचमनं चरेत् ॥४॥ देव्यापादेखिराचम्य अदिलगैनवभिः स्पृशेत । सप्तव्याहृतिगायत्री शिरस्तुर्यस्तदागमम (?) ॥५॥ त्रिधाचाचमनं प्रोक्तं पौराणं स्मातमागमं । श्रोतं च मानसं चेति पंचधा प्रोच्यते पुनः ॥ ६॥ संध्याप्रारम्भकालेषु कुर्यादाचमनत्रयं । संहृताङ्गुलिहस्तेन ब्रह्मतीर्थे पिवेजलं ॥७॥ मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषणाचमनं भवेत् । गोकर्णाकृतिहस्तेन मापमात्रं जलं पिवेत् ॥ ८॥ न्यूनातिरिक्तमात्रण . तज्जलं सुरयासमं । आदौचान्ते च मंत्रैश्च क्रमादाचमनं चरेत् ॥४॥ श्रुतिस्मृतिपुराणानि पर्यायेणविलोमतः। अगुलित्रयसंयुक्त मुक्ताङ्गुष्ठकनिष्ठकं ॥१०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy