________________
२६५२
विश्वामित्रस्मृतिः गङ्गामंत्रेण चावाह्य सलिलोपरि (द्भव) मुद्रया। वह्रिमण्डलमालिख्य जलमध्येसबिन्दुकम् ॥६॥ मायाबीजं समुल्लिख्य दण्डेषु व्याहृतित्रयम् । ततश्शुद्धाम्बुनाचम्य प्राणायामत्रयं तथा ॥६॥ देशकालौ च सङ्कीर्त्य गायत्रीध्यानपूर्वकम् । सूक्तन मार्जनं कुर्याद्यथाशास्त्रोक्तमार्गतः ॥७०।। अघमर्षणमन्त्रण स्नायात्पञ्चाङ्गपूर्वकम् । सङ्कल्पं सूक्तपाठं च मार्जनं चाघमर्षणम् ॥७॥ देवादितर्पणं चैव स्नानं पञ्चाङ्गलक्षणम् । शिरःस्नानं गलस्नानं कटिस्नानं तथैव च ॥७२।। आजानुपादपर्यन्तं मन्त्रस्नानं चतुर्विधम् । तकाराद्यष्टभिर्वर्णैः शिरसि प्रोक्ष्यमान सैः
(शिरःलानं समारेत् ) ॥७३॥ भकाराद्यष्टभिर्वर्णैः कण्ठस्नानं समाचरेत् । सकाराद्यष्टभिर्वर्णैः कटिस्नानं समाचरेत् ॥४॥ पकाराद्यष्टभिवर्णैः जानुपादे समाचरेत् । एवं विज्ञानमात्रेण गङ्गास्नानशतं फलम् ।।७।। मन्त्रस्नानं विना विप्रो जलस्नानं करोति यः । मनोनिर्मलता तस्य नास्ति हि श्रुतिचोदितम् ।।७६।। श्रोत्रे नासाक्षिणी बद्ध्वा सहसान्तर्जले प्लुतः । मग्नं कृत्वा पठेन्मन्त्रं यावद्वायुनिरोधनम् ॥७॥