SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ कानाचरणस्यफलम् २६५१ तयोरपि च कुर्वीत जम्बूलक्षाम्लपणकैः । आयुबलं यशो वचः प्रजाःपशुवसूनि च ॥८॥ ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते। निष्ठीवनं च गण्डूषं वायव्याभिमुखो नरः ॥५६॥ ईशानाभिमुखो भूत्वा वायव्यान्ते समुत्सृजेत् । अङ्गारवालुकाभिश्च भस्मांगुलिनखैरपि ॥६०॥ इष्टकालोष्टपाषाणैर्न कुर्याइन्तधावनम् । खदिरश्च करञ्जश्च कदम्बश्च वटस्तथा ॥६॥ वेणुश्चतिन्तिडीप्लक्षा वाम्रनिम्बे तथैव च । अपामार्गश्च बिल्वश्च अर्कश्चौदुम्बरस्तथा ॥६॥ एते प्रशस्ताः कथिता दन्तधावनकर्मणि । यथाशक्त्यनुसारेण दन्तधावनमाचरेत् ॥६३।। ततो नदी समागम्य गङ्गाध्यानपुरस्सरम् । ॥ आचमनम् ॥ स्वसूत्रोक्तविधानेन कुर्यादाचमनत्रयम् । वामहस्ते जलं नीत्वा त्रिाहृत्याभिमन्त्रितम् ॥६४॥ आकृष्य दक्षिणे भागे रेचयेद्वाममार्गतः । खवामभागमालोक्य वज्रपाषाणतस्त्यजेत् ॥६॥ पुनः शुद्धाम्बुनाचम्य ततः स्नानं समाचरेत् । नाभिमाने जलेस्थित्वा त्रिवारं स्नानमाचरेत् ॥६॥ ॥ स्नानभेदाः॥ प्राणायामत्रयं कुर्यात् दशप्रणवसंयुतम् । उल्लिखेन्मार्जनं यन्त्रं स्नानयन्त्रं समुल्लिखेत् ॥६७)
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy