SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २६५० विश्वामित्रस्मृतिः प्रामाइक्षिणदिग्भागे शतधन्वन्तरावधि । देवाश्च ऋषयश्चैव गणनाथाश्च योगिनः ॥४ा गच्छन्तु देवताः सर्वा अत्र शौचं करोम्यहम् । प्रथमं च शिरोवेष्टं निवीतं च द्वितीयकम् ॥४८॥ दिग्दर्शनं तृतीयं स्यात् अन्तर्धानं चतुर्थकम् । मौनन्तु पञ्चकं ज्ञेयं पुरीषं षष्ठमेव च । सप्तमं मृत्तिकाधानं उदकं चाष्टमं स्मृतम् ॥४६॥ मुष्टिमात्रतृणं दत्त्वा रात्रौ चेद्दक्षिणामुखः। दिवाचोदङ्मुखः कुर्याच्छौचं कर्म समाहितः ॥५०॥ वामदक्षिणकर्णस्थ उपवीतं च धारयेत् । क्रमान्मूत्र पुरीषे च कुर्याच्छौचं द्विजोत्तमः ।।५।। यथाविध्युक्तमार्गेण कुर्यादुद्धृतवारिणा । कूपकुल्या तटाकादिजलैः शौचं करोति यः ॥५२।। कल्पकोटिशतैर्वापि नरकान्न निवर्तते । एकालिङ्गे करे तिस्रः पञ्चापाने तथैव च ॥५३।। पादद्वये चतुः संख्या एतच्छौचं विधीयते । एतद्धर्मो गृहस्थस्य इतरेषां पृथक्पृथक् ॥५४॥ स्मार्तानां द्विगुणं कुर्यात् वनस्थस्त्रिगुणं तथा। चतुर्गणं यतीनां च श्रेयाणां भेद ईरतिः ॥५५।। दुर्गन्धत्यागपर्यन्तं कृत्वा शौचं समाहितः ।।५६।। ॥ दन्तधावनम् ।। क्षीरकाष्ठेन कुर्वीत दन्तधावनमग्रजः । तृणपर्णैस्सदा कुर्यादमा (मे) एकादशी विना १५७
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy