________________
२६४६
दन्तधाक्नविधानवर्णनम् मुख्याचारो महानश्रेष्ठो मुमुक्षोरुपपादकः (कारकः)। यथाकालं द्विजः कुर्यान्मुख्याचार विधीयते ॥३६॥ स्वगुरु पूजयत्येवमुपचारैश्च पञ्चभिः। सद्भक्या संहितामेतां विश्वामित्रस्स(प्र)कल्पयेत् ॥३७।। प्रातरुत्थाय यो विप्रः स्वात्ममूलस्थकुण्डलीम् । प्रबोध्यो सुप्रभाताया गायत्री तत्र चिन्तयेत् ॥३८॥ कुण्डलिन्यां समुद्भूतां गायत्री प्राणधारिणीम् । प्राणविद्या महाविद्या यस्ता वेत्ति स योगवित् ।।३।। अष्टधा कुण्डलीज्ञेया द्वात्रिंशद् वर्णसंख्यया । एवं ज्ञात्वा प्रभातायां षडाधारे तथा न्यसेत् ॥४०॥ षडाधारेषु षट्कुक्षि विन्यसेञ्चतुरक्षरम् । आदिप्रणवसंयुक्त षट्कुक्षिं विन्यसेत्क्रमात् ॥४॥ सहस्रदलमध्यस्था सफला स चतुर्यका। सोऽहं हंसेति विज्ञेया संकल्पज्ञानपूर्वकम् ॥४२॥ अस्य संकल्पमात्रेण सर्व पापैः प्रमुच्यते । अनया सदृशी विद्या अनया सटशोजपः ॥४३।। अनया सदृशं ज्ञानं न भूतो न भविष्यति । समुद्रवसने देवि पर्वतस्तनमण्डले ॥४४॥ विष्णुपत्नी नमस्तुभ्यं पादस्पर्श क्षमस्व मे। अतितीक्ष्णमहाकाय कल्पान्तदहनोपमः ॥४॥ भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि । अयोत्थाय बहिर्गत्वा विण्मूत्रादि त्यजेद्विजः ।।४६॥