SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ २१४८ विश्वामित्रस्मृतिः सन्ध्यात्रये पूर्वमुखो द्विजन्मा त्रिधैवशुद्धाचमनं प्रकुर्यात् । उदक्मुखोवापि समाचरेन्न तहक्षिणापश्चिमयोःकदापि ॥२६॥ सन्ध्यास्नानं परित्यज्य विद्याभ्यासं करोति यः। तस्य विद्याविनाशःस्यादधर्मोभवति ध्रुवम् ॥२७॥ गुरूपदेशविधिना स्नानं सन्ध्यां समाचरेत् । वेदादिसर्वविद्यार्थज्ञानसंपत्तिसाधनम् ॥२८॥ इत्येषाद्विजवर्णानां विद्याभ्यासविधिःक्रमात् । अन्यथा योऽभ्यसेद्विद्यां तस्य विद्या न सिध्यति ।।२।। यस्सन्ध्यां कालतः प्राप्तां अतिक्रमति दुर्मतिः । भ्रूणहत्यामवाप्नोति काकयोनौ प्रजायते ॥३०॥ यथाशक्त्याचरेत्सन्ध्यां कालेऽहा(द्वय फलमाप्नुयात् । काले तस्मात्प्रयत्नेन नित्यकर्म समाचरेत् ॥३।। आचारो द्विविधः प्रोक्तः सोपाधिरनुपाधिकः । सोपाधिर्गुणमात्रः स्यान्मुख्यास्यादनुपाधिकः ॥३२॥ उपाधौ समनुप्राप्ते गौणाचारं समाचरेत् । अनुपाधौ च दुर्बुद्धया गौणाचारं करोति यः ॥३३॥ स दारिद्रमवानोति महारोगः प्रजायते । अपवादो महान् दोषो सम्भवजन्मजन्मनि ॥३४॥ मुख्याचार परित्यज्य गौणाचारं करोति यः। तस्थ कर्मणि धर्माश्च निर्जिताः स्युन संशयः ॥३॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy