SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ अकालसम्पादितकर्मणोनिष्फलत्वम् प्रातः काल इति ज्ञात्वा नित्यकर्म समाचरेत् । कर्मकालो दिनान्ते तु पादंन्यूनंघटीत्रयम् ||१८|| बिम्बं दृष्ट्वा त्यजेदर्घ्यं जपेदातारकोदये । षण्मतेषु समाप्तेषु तत्तन्मन्त्रानुसारतः ॥१६॥ नित्यकर्माणि यः कुर्यात्कर्मसिद्धिं लभेन्नरः (त सः) । अनुक्तकाले कृतकर्म निष्फलं अकालवृष्टिः पतिता यथा भुवि ।। उनि बीजानि विनिष्फलानि वा करोत्यकालः कृतकर्मनिष्फलः ||२०|| नियुक्तकर्माणि नियुक्तकाले कृतानि सद्यस्सुखसिद्धिदानि । यथोप्तबीजानि यथा फलानि २६४७ काले हि वृष्टिर्भुवि जीवनानि ||२१|| सन्ध्यात्रितयलक्षणम् उत्तमा तारकोपेता मध्यमा लुप्ततारका अघमा सूर्यसहिता प्रातस्सन्ध्या त्रिधा मता ||२२|| उत्तमा पूर्वसूर्या च मध्यमा मध्यसूर्यका । अघमा पश्चिमादित्या मध्यसन्ध्या त्रिधा मता ||२३|| उत्तमा सूर्यसहिता मध्यमा लुप्रभास्करा । अघसा तारकोपेता सायंसन्ध्या त्रिधा मता ||२४|| शुचिर्वाप्यशुचिर्वापि नित्यं कर्म न सन्त्यजेत् । तत्रापि कालनियमादर्घ्यदानं विशिष्यते ॥२५॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy