________________
૨૬૪૬
विश्वामित्रस्मृतिः
॥ सन्ध्यायां मुख्यकालातिक्रमे दोषः ॥ कालातीतं न कर्तव्यं कर्तव्यं कालसंयुतम् । तस्मात्सर्वप्रयत्नेन काले कर्म समाचरेत् ॥ ७ ॥ उक्तकाले तु यत्कर्म प्रमादादकृतं यदि ॥ ८ ॥ त्रिसहस्रजपं कुर्यात्प्रायश्चित्तं विधीयते । तथा प्रोक्तं प्राणायामद्वयत्रिकम् ॥ ६ ॥ अथवा जपमात्रेण कालातीतेन दोषभाक् । त्रिसहस्रं सहस्रं वा त्रिशतं शतमेव वा ॥१०॥ अनुलोमविलोमाभ्यां जप्त्वादपाप क्षयो भवेत् । उक्तकाले व्यतीते तु उपाधिश्व प्रमाणकम् ||११|| अनुलोमविलोमाभ्यां सहस्रजपमाचरेत् । देहस्वस्थवता (स्त्यवता) येन स्वस्थचित्तवताऽपि च ॥१२ कालोऽतिक्रम्यते नित्यं तस्य पापो न गण्यते । स सर्वमार्गविभ्रष्टस्तिर्यवत्वं समवाप्नुयात् ॥१३॥ तस्य दर्शनमात्रेण सचैल स्नानमाचरेत् । असम्बद्धप्रलापेन दुःसङ्गेनापि निद्रया ॥१४॥ अतिक्रामन्ति ये कालं ते नरा ब्रह्मघातिनः । नित्यकर्माखिलं यस्तु उक्तकाले समाचरेत् ॥ १५॥ जित्वा स सकलांल्लोकान् अन्ते विष्णुपुरं व्रजेत् । प्रत्यहं प्रातरुत्थाय स्नानं सन्ध्यां समाप्य ( विधाय ) च ॥ १६ ॥ यथाशक्ति जपेद्विद्वान् स मुक्तो नात्र संशयः । यामे चान्त्ये च सर्वर्या नाडीनां पञ्चकं द्विजः ॥१७॥