________________
॥ श्रीगणेशाय नमः॥
* विश्वामित्रस्मृतिः *
अथ प्रथमोऽध्याय
नित्यनैमित्तिककर्मणांवर्णनम् सहस्रदलपङ्कजे सकलशीतरश्मिप्रभे। वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।। प्रसन्नवदनेक्षणं सकलदेवतारूपिणं । स्मरेच्छिरसिपावनं तदविधानपूर्व गुरुम् ।। १ ।।
आह्निकम् चतुःपञ्चघटीमानं मुहूतं ब्रह्मसंज्ञितम् । पञ्चपञ्चघटी ज्ञेया उषःकाल इतीष्यते ॥२॥ ऋतुबाणघटीमानमरुणोदयसंज्ञितम् । . उषः पञ्चघटीमानं प्रातःकाल इति स्मृतः ॥३॥ एवं ज्ञात्वां प्रभाते तु नित्यकर्म समाचरेत् । नित्यनैमित्तिके काम्ये कृते काले तु सत्फलम् ।।४।। ब्राह्म मुहूर्त उत्थाय कृत्वा शौचं समाहितः । स्नानं कुर्यादुषःकाले आत्मार्थमरुणोदये ॥५॥ प्रातःकाल जपं कुर्यान्नित्यनैमित्तिकं विदुः। . रश्मिमन्तं समालोक्य उपस्थानं समाचरेत् ॥ ६ ॥