________________
२६४४
वाधूलस्मृतिः यो मोहादथवाऽऽलस्यात्कृत्वा श्री)केशवार्चनम् । मुक्त स याति नरकं श्वानयोनिषु जायते ।।२२२॥ अनृतं मद्यगन्धं च दिवाखापं च मैथुनम् । पुनाति वृषलस्यान्नं सायं सन्ध्या बहिर्जले(बहिष्कृता)।२२३ स्नानं सन्ध्यां जपं होमं स्वाध्यायं पितृतर्पणम् । देवताराधनं चैव वैश्वदेवं यथाविधि । न कुर्याद्यदि मोहेन स चण्डालो न संशयः ।।२२४।।
॥ इति वाधूलस्मृतिः समाप्ता ||