SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ २६४० वाधूलस्मृतिः संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनादीनां न तु शय्यासनाशनात् ॥१८०।। सर्वे ब्रह्म वदिष्यन्ति संप्राप्त तु कलौ युगे। नानुतिष्ट न्ति वेदोक्त पाषण्डोपहता जनाः ।।१८।। षष्ठयष्टमीहरिदिनं द्वादशी च चतुर्दशी। पर्वद्वयं च संक्रान्तिः श्राद्धाहो जन्मतारका ॥१८२।। श्रवणव्रतकालश्च विशेषदिवसास्तथा । एते काला निषिद्धाःस्युः भद्र मैथुन कर्मणि ॥१८३।। कृते संभाष्य पतति त्रेतायां दर्शनेन तु। द्वापरे त्वन्नमादाय कलौ पतति कर्मणा ॥१८४।। चतुर्दश्यष्टमी चैव ह्यमावास्या तु पूर्णिमा । सर्वाण्येतानि विप्रेन्द्राः रविसंक्रान्तिरेव च ॥१८॥ अर्थार्थी यानि कर्माणि करोति कृपणो जनः । तान्येव यदि धर्मार्थ कुर्वन् को दुःखभाग्भवेत् ।।१८६।। चैत्यवृक्षंचितायूप(धूम) च(चाण्डालं वेदविक्रयम् । अज्ञानात्स्पृशते यस्तु सचैलो जलमाविशेत् ॥१८७।। इक्षनपः फलं मूलं ताम्बूलं पयऔषधम् । विक्रयित्वापि कर्तव्या स्नानदानादिका क्रिया ।।१८८।। श्रुतिस्मृती ममैवाज्ञा यस्तामुल्लध्य वर्तते । आज्ञाच्छेदी ममद्रोही मद्भक्तोऽपि न वैष्णवः ।।१८६।। विष्णुना तु पुरा गीतमेवं तत्तु मयेरितम् । श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते ॥१६॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy