________________
वाधूलस्मृतिः आरवारे च शौक च मन्वादिषु युगादिषु । नाहरेत्तुलसीपत्रं मध्याह्नात्परतस्ततः ॥१५६।। संकान्त्यां पक्षयोरन्ते द्वादश्यां निशिसन्ध्ययोः । तुलसी ये विचिन्वन्ति ते कृन्तन्ति हरेः शिरः॥१६॥ तीर्थे पापं न कुर्वीत न कुर्याञ्च प्रतिग्रहम् । दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः ॥१६॥ भृतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कथंचन ॥१६२।। यो राज्ञः प्रतिगृह्य व शोचितव्ये प्रहृष्यति । न जानाति किलात्मानं विष्ठाकूपे निपातितम् ॥१६३।। तृणं वा यदि वा काष्ठं मूलं वा यदि वा फलम् । अनापृष्ट्वैव गृहीयाहस्तछेदनमर्हति ॥१६॥ वानस्पत्यं मूलफलं दावम्न्यथं तृणानि च । तृणं च गोभ्यो प्रासार्थमस्तेयं मनुरब्रवीत् ।।१६।। भ्रूणहत्या प्रसिद्धि (वाघुषि) च तुलायां समतोलयन् । प्रतिष्ठभ्रूणहा कोट्यां वाधुषिः समकम्पत ॥१६६।। अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलदा (पा)(ट) षण्डपतितेभ्यः(स्)तथा द्विषः । महापातकिनश्चोरादम्बष्ठाद्भिषजस्तथा। मृगयोः (टा)पिशुनाच्चैव नादद्यादाहृतं द्विजः ॥१६षा कुलदा(पा) षण्डपतितवैरिभ्यः काकिणीमपि । उद्यतामपि गृह्णीयादापद्यपि कदाचन ॥१६८।।