________________
२३३६
वाधूलस्मृतिः मध्येस्कन्धभुजाभ्यां तु जप एवमुदाहृतः । अधोहस्तं तु पैशाचं मध्यहस्तं तु राक्षसम् ।।१३८।। बद्धहस्तं तु गान्धर्वमूर्ध्वहस्तं तु दैवतम् । प्रदक्षिणे प्रणामे च पूजायां हवने जपे ॥१३६।। न कण्ठावृतवस्त्रः स्यादर्शने गुरुदेवयोः। दर्भहीना च या सन्ध्या यच्च दानं विनोदकम् ॥१४०।। असंख्यातं च यज्जप्त तत्सर्वं निष्फलं भवेत् । जपस्य गणनां प्राहुः पद्माक्षः भत्ति वर्धनम् ॥१४१।। जपेत्तु तुलसीकाष्ठैः फलमक्षयमश्नुते । अच्छिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥१४२।। छिन्नपादा तु गायत्री ब्रह्महत्यां व्यपोहति । गृहस्थो ब्रह्मचारी च शतमष्टोत्तरं जपेत् ॥१४३।। वानप्रस्थो यतिश्चैव जपेदष्टसहस्रकम् । प्रस्थधान्यं चतुःषष्टेराहुतेः परिकीर्तितम् ॥१४४।। तिलानां तु तदधं स्यात्तदधं स्यावृतस्य (?) च । आत्मारूढाप्सु मज्जेद्वा वदेद्वा पतितादिभिः ।।१४।। अथवा योषितं गच्छेदनृतौ काममोहितः । वदन्त्येषु निमित्तेषु केचिदग्निविनाशनम् ॥१४६।। आपस्तम्बस्य तन्नेष्टमात्मारूढः सदा शुचिः। यस्य भार्या विदूरस्था पतिता वा रजस्वला ॥१४७।। . अनिष्टा प्रतिकूला वा तस्याः प्रतिनिधौ क्रिया। अन्ये कुशमयीं पत्नी कृत्वा तु प्रतिरूपिकाम् ॥१४८||