SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ' सन्ध्याविधिवर्णनम् २६३५ अन्यत्र तु जपं कुर्वन् पुनः सन्ध्यां समाचरेत् । वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥१२७।। स्नातकव्रतलोपे च दिनमेकमभोजनम् । अर्ध्यप्रदानतः पूर्वमुदयास्तमये सति ॥१२८।। गायत्र्यष्टशतं जप्यं प्रायश्चित्त द्विजातिभिः । तत्र प्रातरा तेकामेदुपवासोऽहरुच्यते ॥१२॥ तथा सायमतिक्रामेद्रात्रिं चोपवसेद्विजः । यदद्यकच्चं वृत्रहन् प्रातरयमनुस्मृतः ॥१३०।। उच्छेदभीतिमध्याह्न प्रायश्चित्तार्घ्य उच्यते । न तस्येति च सायाह्न ततोऽस्त्रमुपसंहरेत् ॥१३१।। सूतके मृतके वापि सन्ध्याकर्म न संत्यजेत् । मनसोच्चारयेन्मन्त्रान् प्राणायाममृते द्विजः ॥१३२।। प्रणवेन तु संयुक्ता व्याहृतीः सप्त नित्यशः। सावित्री शिरसा साधं मनसा त्रिःपठेद्विजः ॥१३३।। देवार्चने जपे होमे स्वाध्याये श्राद्धकर्मणि । स्नाने दाने तथा ध्याने प्राणायामात्रयस्त्रयः ॥१३४।। आदावन्ते च गायत्र्या प्राणायामात्रयस्त्रयः। सन्ध्यायामर्घ्यदाने च प्राणायामाः सकृत्सकृत् ।।१३।। अङ्गुष्ठानामिकाभ्यां तु तथैव च कनिष्ठया । प्राणायामस्तु कर्तव्यः मध्यमां तर्जनीं विना ॥१३६।। तर्जनीं मध्यमांस्पृष्ट्वा जपन् शूद्रसमो भवेत् । कृत्वोत्तानौ करौ प्रातः सायंचाधोमुखौ करौ ॥१३७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy