SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ऊर्ध्वपुण्ड्रमहत्त्ववर्णनम् २६३३ स परस्य प्रियोनित्यं पुण्यभाक मुक्तिभाग्भवेत् । चतुरङ्गुलमूर्ध्वाय द्वयङ्गुलं विस्तृतं मृदा ॥१०॥ द्विजः पुण्ड्रमृजु सौम्यं सान्तरालं तु धारयेत् । ऊर्ध्वगत्यां तु यस्येच्छा तस्योध्वं पुण्ड्रमुच्यते ॥१०६।। ऊर्ध्वगत्यां तु देवत्वं स प्राप्नोति न संशयः । पर्वताय नदीतीरे विष्णुक्षेत्रे विशेषतः ॥१०७।। सिन्धुतीरेऽथ वल्मीके तुलसीमूलमाश्रिते। मृद एतास्तु संग्राह्या वाश्चान्याश्च मृत्तिकाः ॥१०८।। श्यामं शान्तिकरं प्रोक्तं रक्त वश्यकरं भवेत् । श्रीकरं पीतमित्याहुर्मोक्षदं श्वेतमुच्यते ॥१०॥ अङ्गुष्ठः पुष्टिदः प्रोक्तो मध्यमा पुष्करी भवेत् । अनामिकान्नदा नित्यं तर्जनी मुक्तिभुक्तिदा ॥११॥ अभिषिक्तं तु यच्चूर्ण विष्णुबिम्बे तु यो नरः । हारिद्र धारयेन्नित्यं सोऽश्वमेधफलं लभेत् ॥११।। अनागतां तु ये पूर्वी अनतीतां तु पश्चिमाम् । सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ।।११२॥ यावन्तोऽस्यां पृथिव्यां तु विकर्मस्था द्विजातयः । तेषां हि पावनार्थाय सन्ध्या सृष्टा स्वयंभुवा ॥११३।। गायत्री नाम पूर्वाह्न सावित्री मध्यमे दिने । सरस्वती च साया सैव सन्ध्या त्रिधा स्मृता ॥११४।। प्रतिग्रहादन्नदोषात्पातकादुपपातकात् । गायत्री प्रोच्यते यस्मात् गायन्तं त्रायते यतः॥११।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy