SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ वाधूलस्मृतिः प्रातरुत्थाय यो विप्रः प्रातः स्नायी सदा भवेत् । सर्वपापविनिमुक्तः परं ब्रह्माधिगच्छति ॥al अन्तराच्छाद्य कौपीनं वाससी. परिधाय च । उत्तरीयं समादद्यात् तद्विना नाचरेत्रियाः ॥ यज्ञोपवीतवद्धार्यमुत्तरीयं सदा द्विजैः।। वन्दने तर्पणे चैव कट्यामेव च धारयेत् ।।६।। मुखजानामूर्ध्वपुण्डं तिलकं बाहुजन्मनाम् । पदाकारमूरुजानां त्रिपुण्डू पादजन्मनाम् ।।१०।। धृतोर्ध्वपुण्डः परमीशितारं विष्णुं परं ध्यायति महात्मा। स्वरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन्महतो महान्तम् ॥१०१।। महोपनिषदि प्रोक्तमूर्ध्वपुण्ड्रं परं शुभम् । धृतोर्ध्वपुण्डः कृतचक्रधारी नारायणं सांख्ययोगाधिगम्यम् । ज्ञात्वा विमुच्येत नरः समस्तैः संसारपाशैरिह चैति विष्णुम् ॥१०२।। अथर्वशिरसि प्रोक्तमूर्ध्वपुण्डविधि द्विजा । प्रवक्ष्यामि हितार्थं वो भवपापप्रणाशनम् ॥१०३।। हरेः पादाकृतिं रम्यमात्मनश्चहिताय वै । मध्येछिन्दन्नूर्ध्वपुण्डू यो धारयति सर्वदा ॥१०४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy