________________
२६२८
वाधूलस्मृतिः विप्र वो वा विप्रो वा ग्रहणे दानमर्हति । सर्व भूमिसमं दानं सर्वो ब्रह्मसमो द्विजः ॥५३।। सर्व गङ्गासमं तोयं ग्रहणे चन्द्रसूर्ययोः । प्रातराचमनं कृत्वा शौचं कृत्वा यथाविधि ॥५४।। दन्तशौचं ततः कृत्वा प्रातः स्नानं समाचरेत् । द्वौ हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् ।।५।। गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् । येन तीर्थेन गृह्णीयात् तेन दद्यान्जलाञ्जलिम् ॥५६।। अन्यतीर्थेन गृह्णीयात्तत्तोयं रुधिरं भवेत् । पूर्वाशाभिमुखो देवानुत्तराभिमुखस्त्वृषीन् ॥७|| पितृस्तु दक्षिणास्यस्तु जलमध्ये तु तर्पयेत् । स्नानाथमभिगच्छन्तं देवाः पितृगणैः सह ॥५८| वायुभूतास्तु गच्छन्ति तृषार्ताः सलिलार्थिनः । तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम् ॥५६।। निराशास्ते निवर्तन्ते वस्त्रनिष्पीडने कृते । तस्मान्न पीडयेद्वस्त्रं ये के च इति मन्त्रतः ॥६०।। वस्त्रं चतुर्गुणीकृत्य निष्पीड्य च जलाद्वहिः । वामप्रकोष्ठे निक्षिप्य द्विराचम्य शुचिर्भवेत् ॥६१।। मनुष्यतर्पण चैव स्नानवस्त्रनिपीडने । निवीती तु भवेद्विप्रस्तथा मूत्रपुरीषयोः ॥६२।। नदीपु देवखातेपु गिरिप्रस्रवणेषु च । म्नानं प्रतिदिनं कुर्यात सर्वकर्मप्रसिद्धये ॥६३।।