________________
२६२७
स्नानविधिवर्णनम् छायामन्त्यश्वपाकानां स्पृष्ट्वा सानं समाचरेत् ।। चत्वारिंशत्पदादूवं छायादोषो न विद्यते ॥४२॥ अस्पृश्यस्पर्शने चैव त्रयोदशनिमज्जनम् । आचम्य प्रयतः पश्चात्तानं विधिवदाचरेत् ॥४३।। ज्वराभिभूता या नारी रजसा च परिप्लुता। कथं तस्या भवेच्छौचं शुध्यते केन कर्मणा ॥४४॥ चतुर्थेऽहनि संप्राप्त स्पृशेदन्या तु तां त्रियम् । सा सचैलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् ।।४।। दश द्वादशकृत्वो वा ह्याचामेच पुनः पुनः । अन्ते च वाससा त्यागः ततः शुद्धा भवेत्तु सा ॥४६॥ दद्याच्छक्या ततो दानं पुण्याहेन विशुध्यति । आर्तवाभिप्लुते नारों संभाषता मिथो यदि ॥४७॥ उपवासं तयोराहुरशुद्धौ शुद्धिकारणम् । शावे च सूतके चैव सन्तरा चेतुर्भवेत् ।।४।। अस्नात्वा भोजनं कुर्याद् भुक्त्वा चोपवसेदहः । उत्सवे वासुदेवस्य यः स्नाति स्पर्शशल्या ॥६॥ स्वर्गस्थाः पितरस्तस्य पतन्ति नरके क्षणात्। अस्पृश्यस्पर्शने वान्तो अभुपाते झते भगे ॥२०॥ स्नानं नैमित्तिकं झेयं देवर्षिपितृवर्जितम् । स्वधुन्यम्भः समानिस्युः सर्वाण्यम्भासि भूतले ।।५।। कूपस्थान्यपि सोमार्कग्रहणे नात्र संशयः। अश्रोत्रियः श्रोत्रियो वा अपात्रं पात्रमेव वा ॥२॥