________________
वाधूलस्मृतिः
आम्रक्षु (ख)ण्डताम्बूलचर्वणे सोमपानके । विष्ण्वङ्घ्रितोयपाने च नाद्यन्ताचमनं भवेत् ||३१|| विष्णुपादोद्भवं तीर्थं पीत्वा नक्षालयेत्करम् । क्षालयेद्यदि मोहेन पञ्चपातकमाप्नुयात् ||३२|| उपवासदिने यस्तु दन्तधावनकृन्नरः ।
स घोरं नरकं याति व्याघ्रभक्षा (क्ष) श्वतुर्यु गम् ||३३|| प्रक्षाल्य पादौ हस्तौ च मुखं चाद्भिः समाहितः । आचम्य प्राङ्मुखः पश्चादन्तधावनमाचरेत् ||३४|| आयुर्बलं यशोवर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ||३५|| यस्तु गण्डूषसमये तर्जन्या वक्त्रशोधनम् । कुर्वीत यदि मूढात्मा नरके पतति द्विजः ||३६|| अलाभे दन्तकाष्ठानां प्रतिषिद्धदिनेष्वपि । अपां षोडशगण्डूषैः मुखशुद्धिर्भविष्यति ||३७|| प्रतिपत्पर्वषष्ठीषु नवमी द्वादशी तथा । दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ||३८|| सुरया लिप्तदेहोऽपि प्रायश्चित्तीयते द्विजः । प्रातरभ्यक्तदेहस्य निष्कृतिर्न विधीयते ॥३६॥ तैलाभ्यङ्गं महाराज ब्राह्मणानां करोति यः । स स्नातोऽब्दशतं साङ्गं गङ्गायां नात्र संशयः ||४०|| द्रव्यान्तरयुतं तैलं न कदाचन दुष्यति । तैलमाज्येन संसिक्त ग्रहणेऽपि न दुष्यति ||४१ ||
२६२६