________________
२६२५
नित्यकर्मविधिवर्णनम् शौचे यत्नः सदा कार्यः तन्मूलो हि द्विजः स्मृतः। शौचाचारविहीनस्य समस्ता निष्फलाक्रियाः ॥२०॥ अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेत् ।।२।। गोकर्णाकृतिहस्तेन माषमग्नजलं पिबेत् । तन्न्यूनमधिकं पीत्वा सुरापानसमं भवेत् ॥२२॥ संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः। मुक्तांगुष्ठकनिष्ठे तु शिष्टेनाचमनं भवेत् ॥२३॥ उपविश्य शुचौ देशे प्राङ्मुखो ब्रह्मसूत्रधृत् (क्)। बद्धचूडः कुशकरो द्विजः शुचिरुपस्पृशेत् ॥२४॥ अप्सु प्राप्तासु हृदयं ब्राह्मणः शुद्धतामियात् । राजन्यः कण्ठतालुस्मृक वैश्यः शूद्रः तथा स्त्रियः ॥२शा सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् । नोच्छिष्ट तत्पवित्रं तुभुक्त्वोच्छिष्ट तु वर्जयेत् ॥२६॥ कुशहस्तः पिबेत्तोयं कुशहस्तः सदाऽऽचमेत् । सग्रन्थिकुशहस्तस्तु न कदाचिदुपस्पृशेत् ॥२७॥ प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा। विप्रस्य दक्षिणे कर्णे सन्तीति मनुरब्रवीत् ॥२८॥ प्राङमुखोदङ्मुखो वापि समाचम्य विशुध्यति । पश्चिमे पुनराचम्य याम्या स्नानेन शुध्यति ॥२६॥ आवासा जले कुर्यात् तर्पणाचमनं जपम् । शुष्कवासाः स्थले कुर्यात्तपणाचमनं जपम् ॥३०॥