________________
२६२४
वाधूलस्मृतिः अवगुण्ठितसर्वाङ्गः तृणैराच्छाद्य मेदिनीम् । घ्राणास्ये वाससाच्छाद्य मलमूत्रं त्यजेद्बुधः ॥६॥ अप्रावृत्य शिरो यस्तु विण्मूत्रं सृजति द्विजः । तच्छिरः शतधा भूयादिति वेदाः शपन्ति तम् ॥१०॥ उत्थाय वामहस्तेन गृहीत्वा चोर्ध्वमेहनम् । शौचदेशमथाभ्येत्य कुर्याच्छौचं मृदम्बुभिः ॥११॥ अरनिमात्रमुत्सृज्य कुर्याच्छौचमनुद्धृते । पश्चात्तच्छोधयेत्तीर्थमन्यथा न शुचिर्भवेत् ॥१२॥ विदछौचं प्रथमं कुर्यान्मूत्रशौचं ततः परम् । पादशौचं ततः कुर्यात् करशौचं ततः परम् ।।१३।। पञ्चधा लिङ्गशौचं स्याद्गुदशौचं त्रिवेष्टितम् । पादयोलिङ्गवच्छौचं हस्तयोस्तु चतुर्गुणम् ॥१४॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणम् ॥१५॥ यद्दिवा विहितं शौचं तदधं निशि कीर्तितम् । तदर्धमातुरे प्रोक्तमातुरस्यार्धमध्वनि ।।१६।। विण्मूत्रकरणात्पूर्वमादद्यान्मृत्तिकां तदा । अददानस्तु तां पश्चात्सवासा जलमाविशेत् ॥१७॥ आर्द्रामलकमात्रास्तु ग्रासा इन्दुव्रते स्मृताः। तथैवाहुतयः सर्वाः शौचार्थे याश्च मृत्तिकाः ॥१८॥ शौचं तु द्विविधं प्रोक्त बाह्यमाभ्यन्तरं तथा । मृजलाभ्यां स्मृतं बाह्य भावशुद्धिस्तथान्तरम् ॥१६॥