________________
२६२०
कपिलस्मृतिः आदौ प्रतिवसन्तस्य वसन्ते सोमयाजिनः । संकल्पकाल आढ्यस्य दैवान्नष्टश्रिया पुनः ॥६७३।। तद्विच्छित्तिर्दशायां चयन केनाप्युपायतः । कर्तव्यत्वेन चोक्तस्य सामर्थ्यात्करणे तथा ॥६७४|| तस्य प्रतिवसन्तस्य तादृशं दानमेककम् । प्रतिगृह्य विधानेन तद्र्व्यस्य तुरीयकम् ॥६७५|| त्यागं कृत्वा चित्तमपि तेन द्रव्येण तत्परम् । अनुष्ठितस्सप्ततन्तुः यदि तद्वत्सु चाखिलम् ।।६७६।। विनियुक्त तत्र सममात्र एवान्य तादृशः। तद्र्व्यं तत्प्रदं न स्यादेव यागाय यत्कृतम् ।।१७७|| तत्सर्वं तस्य दोषाय न भवेदेव सर्वथा । व्रतसंवत्सरं यावज्जीवं चैव विधानतः ॥६७८|| संकल्पितस्य यज्ञस्य विषये ब्राह्मणस्य चेत् । सर्वप्रतिग्रहेणापि न दोष इति सा श्रुतिः ॥६७६।। भ्रष्टाद्वा पतिताद्वापि पाषण्डान्नास्तिकादपि । चण्डालाद्यवनान्म्लेच्छात्प्रतिगृह्यापि तं ऋतुम् ।।६.८०। यजेत विधिवद्विप्रएवमेव वस्तथा। दौर्ब्राह्मण्यविनाशाय विच्छित्तौ वेदिवेदयोः ।।१८।। अतिपापादतिखलादतिनीचादतन्द्रितः। सकाशाद्वसु संगृह्य येन केन प्रकारतः ।।६८२।। अग्निष्टोमस्त्वनुष्ठ यः प्रथमोऽयं क्रतुर्भवेत्। । तस्यानुष्ठानमात्रेण दौर्ब्राह्मण्यं विनश्यति ॥६८३।।