________________
२६१८
कपिलस्मृतिः दृष्ट्वा विलोक्य मार्तण्डं पुण्डरीकाक्षमुच्चरेत् । ताम्बूलं धरणिं धान्यं यतिवर्ण्यः कदाचन ॥६५१।। जातरूपं न दद्याञ्च सुगन्धकुसुमस्रजम् । तण्डुलान् बालरण्डायै न दद्यात्तु कदाचन ।।६५२॥ आगतायै भिक्षुकायै करमात्राधिकान्ननु । तासां नित्यं धान्यमेव प्रदेयं करपूरितम् ॥६५३।। यदि पञ्चाशदधिकसंवत्सरपरा पुनः । तदा तण्डुलयोग्यापि भवेदिति भृगोर्मतम् ।।६५४॥ व्रतश्राद्धनिमित्तेन याचितो यदि वा त्वया । तत्पूर्तिमात्रदानेन गयाश्राद्धफलं भवेत् ॥६५५।। विधवाभिरनाथाभिः वस्त्राय यदि याचितः । तन्मनः पूरणं कुर्वन्नश्वमेधफलं भवेत् ।।१५६।। षष्टिवर्षात्परं तासामनाथानां तु याचने । भिक्षायामधिकारोऽस्ति तत्पूर्व नेति चाङ्गिराः ॥६५७।। वर्णिने यतये कन्यादानं शास्त्रविगहितम् । विशेषेण धराताम्बूलद्वयं नरकप्रदम् ।।६५८।। अपि यत्नात् श्राद्धदिने वर्णिने दैवरूपिणे । देया स्यादक्षिणा तस्मै न ताम्बूलमिति श्रुतिः ।।१५।। तिने कन्यकादानं रसदानं (तु) पुत्रिणे । यागार्थिनेऽन्नदानं च कोटियज्ञफलप्रदम् ॥६६॥ वैश्वदेवावसाने तु ब्राह्मणो यश्च कञ्चन(कश्चन)। क्षुधार्ता पात्रभूतस्य स्त्रियोऽन्तर्वन्य एव च ॥६६॥