________________
नानाविधदानप्रकरणम् २६१७ विनैव वेदाध्ययनं ब्रह्मचारी विशेषतः। दण्डनीयः प्रयत्नेन ताडनीयस्तदा तदा ॥६४०॥ राष्ट्रादु (द्वासयेत्तञ्चा) वेदाध्ययनतत्परम् । नित्यंभिक्षार्थिनोयत्नात् शाकसूपरसादिभिः ॥१४॥ भिक्षाप्रदानात्परतः तत्समाप्ति समाचरेत् । तावन्मात्रेण ते वेदाः सर्वे शास्त्राणि चाङ्गकैः ॥४२॥ तथा स्मृति पुराणानि (सेतिहासानि सर्वशः)। वर्णिभुक्तौ पसूपरसाद्यदधिगोरसाः ॥६४३।। हाटकक्षितिगोरत्नगजवाहा भवन्ति वै। गृहस्थस्य प्रतिदिनं गुह्यो धर्मः स्वयं महान् ॥६४४|| यतेर्वा वर्णिनोदत्ताः लवणव्यञ्जनादयः । भुक्तिकालेऽन्वहं नृणां ग्रहिणः कामधेनवः ॥६४।। कल्पवृक्षा भवेयुर्हि किं चैते रत्नसानवः । कन्याभूस्वर्णरत्नाश्वगजवाहनसंचयाः ॥६४६।। यतिवणि प्रदत्तास्ते गृहिणो नरकप्रदाः । भवेयुर्नात्र सन्देहः तभ्यां(स्या) दद्यादतो न तान् ।।६४७॥ गृहिणं त्वन्नभिक्षायै समागतमुदीक्ष्य ना। द्वितीयेऽहनि हुंकृत्य दूरमुद्वासयेद्धृ वम् ॥६४८॥ प्रथमेऽहनि चेदज्ञः किं कायं क्रियते त्वया । नेतः परं न कायं स्यादित्युक्त्वा तां प्रदापयेत् ।।१४।। गच्छेत्यु(दु)चाटयेत्तूष्णीं द्वितीयेऽहनि चच्छवै। . याचन्तं तण्डुलान् ब्रह्मचारिणं यतिमेव वा ॥६५०॥