________________
२६१६
कपिलस्मृतिः दशानामपि पूर्वेषां दशानामपि पूर्ववत् । पितुः स्वस्य तथा पश्चात्तत्पितुस्तत्पितुस्तथा ॥६३०॥ एकोत्तरशतानां च कुलानां महतामपि । पितृणामपि सर्वेषां नरकोत्तारपूर्वकम् ॥३१॥ तच्छाश्वतब्रह्मलोकावाप्तिकारकमुच्यते । दातुस्तु सद्यो विज्ञानद्वारैव पुनरेव वै ॥३२॥ तद्ब्रह्मसायुज्यनामा मुक्तिकारकमेव वै। तस्मान्नैतत् समं दानं धर्मो वै तत्परः पुनः ।।६३३।। सदैवैतत्समं दानं लक्ष्मीनारायणप्रियम् । महासन्ततिसंवृद्धिकारकं कथितं महत् ॥६३४॥ यथैतदेतत् परमं निश्शेषपितृतारकम् । कुर्यादानं प्रशंसन्ति तथा तत्तनयस्य च ॥१३॥ दानं पितृणामत्यन्तकलिदुर्गातिकारकम् (१) । पूर्ववत् कालसंख्या च वेदितव्या विशेषतः ।।६३६।। अस्मिन्नर्थे न सन्देहः एवमाह महर्षयः । यतये कन्यकादानं रसदानं च वर्णिनः ॥६३७॥ भिक्षादानं गृहस्थाय त्रयमेतद्विगहितम् । तथाथिनं मस्करिणं वर्णिनं चान्नकामुकम् ।।६३८॥ भिक्षार्थिनं गृहस्थं च सद्यो राष्ट्रात्प्रवासयेत् । तूष्णी भिक्षा गृणन् प्रामे वसन्तान्भक्षयन्वृथा ॥१३॥