________________
२६१५
नानाविधदानप्रकरणम् रहस्यमेकं वक्ष्यामि ग्राहकस्त्वस्य केवलम् । रक्षस्त्वं समवाप्नोति दाता सायुज्यमृच्छति ।।११।। गोसहस्रमतिश्लाघ्यं गोसत्रशतसन्निभम् । नीलादिभेदतस्तत्तु सप्तरूपं प्रचक्षते ॥२०॥ स्वर्णलाङ्गलसंज्ञं तदपरं दानमेककम् । मन्वादिभिविरचितं दातुस्सर्वफलप्रदम् ॥१२॥ नैतेन तुल्यमन्यत्तु दानं दानोत्तमोत्तमम् । कामधेन्वाख्यकं पश्चादेकं सर्वगुणान्वितम् ।।२२।। हरिश्चन्द्रादिभिर्घोरैः राजभिः समनुष्ठितम् । सर्वयज्वौघविनुतमपरं दानमेककम् ॥२३॥ कल्पवृक्षाख्यकं देवदेवस्य परमात्मनः । अतिसंप्रीतिजनकं सद्यः कैवल्यदायकम् ॥२४॥ एवं महाधरादानं गोमेधशतसंनिभम् । सर्वाण्येतानि दानानि कर्तुरेव त्रिपूर्वकम् ।।१२।। पूर्वोक्तफलदं ज्ञेयं नान्यस्येति सुनिश्चितम् । एवं सर्वाणि दानानि दशपञ्च च केवलम् ॥६२६।। नवमं कन्यकादानदातुस्तद्ग्राहकस्य च । चन्द्रमण्डलपर्यन्तं यवराशिः कृता यदि ॥६२७|| सूर्यमण्डलपर्यन्तं तिलराशि(:)कृता यदि । (अ) तद्री शिवलोकपर्यन्तस्सर्षपा राशिरुत्तमा |२८|| सप्तर्षिलोकपर्यन्तं वालुका राशिरुत्तमा । कृतस्त्वासां तु या संख्या तावद्वर्षसहस्रकान् ।।१२।।