SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ २६१४ कपिलस्मृतिः दशायां च रमायां तु कुर्याद्वापि तदेव हि । फलं तु लभते दिव्यं ब्रह्मसायुज्यलक्षणम् ॥६०८|| हैरण्यगर्भ तद्दान (न) गोमूत्रं प्रथमं स्मृतम् । गोमयोदकसंज्ञं तत् (द्) द्वितीय परिकीर्तितम् ।।१०।। दधिपूरितमन्यत्तु तृतीयमिति तद्विदुः । क्षीरपूरितमन्यत्तु चतुर्थं पापभञ्जकम् ॥६१०।। घृतेन पूरितं प्राहुः पञ्चपातकनाशनम् । तैलं हिरण्यगर्भाख्यं ततो भिन्नं प्रचक्षते ॥६११।। मधुना पूरितं पुण्यमत्यन्ताज्ञानवारकम् । तथेक्षुरससंपूर्ण महारौरवभीतिहम् ॥६१२।। नारिकेलोदकैः पूर्ण तथाम्भःपूर्णमेककम् । हैरण्यगर्भ चरमं प्राहुर्दिव्या महर्षयः ॥१३॥ एवं दशविधं प्रोक्त दानं पापापनोदकम् । हैरण्यगर्भसंज्ञं तत् ग्राहकस्यातिभीतिहम् ॥१४॥ तद्ब्रह्माण्डकटाहाख्यं दानं सर्वार्थदायकम् । चतुर्दशविधं प्रोक्त भूर्भुवस्वादिभिः पदैः ॥११॥ अतुलादिपदैश्वापि संयुक्त सर्वसिद्धिदम् । महादानं महाभूतिदायकं पापवृन्दहम् ॥६१६।। एषां यदेककं वापि कृतं चेनिखिलं कृतम् । तत्तत्कामनया चेत्तु चरेदेव तथा तथा ॥१७॥ तूष्णीकं परमेशस्य तुष्टये चेत्कृतं तु तत् । कर्तुस्सायुज्यदं सद्यः तथापि तु पुनः परम् ।।१८।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy