SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ २६१३ नानाविधिदानप्रकरणम् ततोऽपि कृतया मौज्या शूद्रो ब्राह्मण्यमृच्छति । तुलाष्टादशधाज्ञेया तत्रादौ राजता स्मृता ॥८६॥ चामीकरमयी पश्चात्त्रपुसीसकयोरपि । औदुम्बरमयी पश्चात् कार्पासपटयोरपि ॥८६८॥ गुडाज्यलवणंक्षीरदधिशाकमयाः पराः। माध्वीकतिलतैलानां पैल्वाकी धान्यराशिभिः ॥८६॥ चरमा सा प्रकथिता सप्तधान्यैः पृथक् पृथक् । ग्राम्यैरपि तथारण्यैः विकल्पेन मनीषिभिः ॥१०॥ चरमा सा तुला ज्ञेया चतुर्दशविधैकका। ग्राहकस्य ब्राह्मणस्य सद्योरक्षस्त्वदायिनी ॥१०॥ प्रायश्चित्तापनोद्या सा न भवेदेव सर्वथा। सर्वाण्यपि च दानानि तुलादीनि तु षोडश ॥६०२॥ तादृशान्येव सर्वाणि नात्र कार्या विचारणा। कर्तुस्सद्यस्सर्वपापनाशद्वारैव केवलम् ॥६०३॥ मुक्तिदान्येव सर्वेषां वर्णानामविशेषतः । एतानि चरमे काले यो वा मो महामनाः ॥६०४॥ मध्ये तेषां तुलादीनामप्येकं दानमुत्तमम् । करोति सद्यो मुक्तिं तां ब्रह्मसायुज्यलक्षणम् ॥१०॥ अवशादेव मनुजो लभते नात्र संशयः । चरमे जन्मनि नरस्तानि दानानि मानवः ॥६०६॥ करोत्येव न चान्यस्मिन् रहस्यं तन्मयोदितम् । दानं महत्तथैकेषामप्येकं भक्तिमान्नरः ॥६०७॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy