________________
विप्रमहत्त्ववर्णनम्
२६११ सर्वक्रतुस्वरूपश्च सर्वतीर्थसदाश्रयः। सर्वव्रतानि कृच्छ्राणि तपांसि ब्राह्मणः स्मृतः ॥८७६।। सर्वे धर्मास्स एवस्याच्छ्राद्धानि नियमा अपि । ब्राह्मणेन विना किंचिदभिप्रेतं न सिद्धयति ॥८७७।। तस्मान्न ब्राह्मणसंमं किं भूतमिह विद्यते । यस्यास्येन सदाश्नन्ति व्यानि त्रिदिवौकसः ।।८७८॥ कव्यानि चैव पितरः किं भूतमधिकं ततः । ब्राह्मणो जङ्गमं तीथं प्रवक्ता ब्राह्मणस्सुरः ।।८७६।। अदाहकः पावकोऽयं चाक्षषो वायुरुच्यते । पद्मबन्धुरयं प्रोक्तः संत्यक्तास्तमयोदयः ॥८८०॥ सुपात्रं सर्वदा नाना शुभानामास्पदः पदः । अभाग्याज्ञानरोगाश्रीःमृत्युदारिद्रयमारकः ॥८॥ अकर्तुमन्यथाकतुं कर्तुं सर्व विचक्षणः । दुर्वर्णानपि सद्वर्णानवशात् कुरुते क्षणात् ।।८८२॥ नैतस्मादधिकं तुल्यं वस्त्वस्ति जगतीतले । हिरण्यगर्भत्रितयदानमात्रेण तत्क्षणात् ।।८८३॥ विप्रत्वं परमाप्नोति वृषलो नात्र संशयः । तत् षोडशमहादानप्रविष्ट कस्य वाडवे ।।८८४॥ करणादेव शेषाणां दानानां करणे पुनः । शूद्रादेर्वेदमन्त्रैस्ते सम्यक्कारयितुर्यथा १८८५॥ विधानतस्तुप्रभवेत् तत्तु विप्रमुखेन चेत् । क्षत्रादि मुखतश्चेत्तु न युक्त प्रभवेद्धि तत् ।।८८६॥