SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ २६१० कपिलस्मृतिः तत्र तत्र च गच्छामः(मो) न भुजिष्यामहे ततः । इत्यस्मिन् सङ्कटेऽर्थे तु विवादायागतो यदि ॥८६।। भुक्तिकाले दण्डनीयः नान्यकाले तदुक्तितः । भोजनेषु ब्राह्मणानां विवादे तु परस्परम् ।।८६६॥ संजाते सद्य एवास्य शान्तिःकार्या न चेद्वथा । हानिस्सुमहती घोरा जायते चोभयत्र तु ॥८६७| विवादे तादृशे शक्तः श्रोत्रियश्चेद्विशेषवित् । बहुभिस्तु विशेषेणाविद्यौरश्रोत्रियैर्युतः ।।८६८।। यदि स्युः श्रोत्रियास्सन्तः बहवस्तत्र तैस्समम् । अश्रोत्रियस्त्वं यं चैकः विवदेन तु धर्मतः ।।८६६॥ परेषां तु सहायेन तद्वाक्यश्रवणादिना। न कर्म कुर्यात्किमपि साहसं वचनं तथा ।।८७०।। न वदेश्चापि तूष्णीकं किं तु तानखिलान्द्विजान् । संश्रित्यैव प्रणत्या च प्रियोक्त्या स्ववशान्नयेत् ।।८७१॥ तानेतानखिलानो चेद्धानिरस्यैव जायते । बहुब्राह्मणविद्वषः तद्दुःखकरणं वृथा ॥८७२।। श्रेयसो न भवेदेव तस्मान्नतु तथा चरेत् । अधिकान् श्रोत्रियान् कुर्यात् न्यूनानश्रोत्रियान्सदा ॥८७३॥ कर्मणा मनसा वाचा प्रयत्नेन समाचरेत् । ब्राह्मणानर्चयेन्नित्यं ब्राह्मणानेव तोषयेत् ।।८७४।। भोजयेद्ब्राह्मणानेव दद्यात्तेभ्योऽनिशं धनम् । सर्वदेवभयो विप्नः सर्ववेदमयो द्विजः ।।८७५।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy