________________
दण्डविधानम्
२६०६ मासवयनरूपेण विप्रसंख्यानुरूपतः । कारयित्वा ततः पश्चात् एकविप्रस्य षट्शतम् ।८।। पणान् दण्डं गृहीत्वा च सर्वेषां तत्र वै तथा । भोक्तुं समुपविष्टानां पृथगेवं निरीक्ष्य वै ।।८५६।। सर्वान् पणान् तान्स्वीकृत्य तां वृत्तिमुपहृत्य च । तग्रामिभ्योऽथ वा तस्य तत्प्रत्यर्थिन एव वा ।।८५७।। देशादुच्चाटयित्वाथ दद्यादेवाविशङ्कतः । विप्रवृत्तिस्तु विप्रेभ्यः एव देया न तु स्वयम् ॥८५८।। हरेद्राजा धर्मपरः हरन्सद्यः पतेधः । एवं शूद्रश्चरेत्कोऽपि तस्य दण्डो वधस्ततः ।।८५६।। छित्वा हस्तौ प्रथमतः निगले वसतिस्सदा । राज्ञानिष्ठप्रवक्तारं तस्यैवाक्रोशकारिणम् ॥८६०।। तन्मन्त्रस्य च भेत्तारं तत्पनीकृतसङ्गकम् । छित्वा जिह्वां च शिश्नं च सद्यो दूराद्विसर्जयेत् ॥८६॥ स्वजनैर्दूषितः सद्भिः भोजनादिषु कर्मसु । मोहयित्वा तदा यत्नादवशाचाप्यचिन्तितम् ।।८६२।। समागतश्च समये विवादेनैव केवलम् । दुराशया भोक्तु कामः दूरीकुर्वन्परान्द्विजान् ।।८६३।। दापनीयस्त्वसौ सम्यक् चतुर्विंशतिकान् पणान् । स आगतो यदि वयं भोक्तुं यत्र च यत्र च ।।८६४॥