SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २६०८ कपिलस्मृतिः विद्याधिक्यं च संप्रेक्ष्य तस्मिन्निरपराधिनि । अत्यन्तासहमानास्ते तूष्णीकं तदुपर्यथ ॥८४४॥ आरोपयित्वाऽन्योऽन्यं वैदुर्गुणा न तदीयगान् । समष्टयव ग्रामिणो वै बहवो मौढ्यमास्थिताः ।।८४॥ विद्याकर्मादिभिहींनाः दूषयेयुर्यदा तदा। धार्मिको नृपतिः श्रीमान् बहूनां तानि पृष्टतः(१) ।।८४६।। कृत्वा वचांसि तत्पश्चात्तमेव श्रोत्रियं परम् । कृत्वैव सम्यक् तत्पूर्व तमेवैनं प्रपूजयेत् ।।८४७।। शतानामपि मूढानां वचनं नैव कारयेत् । तथा पुनस्सहस्राणामयुतानां विशेषतः ।।८४८॥ किमस्ति वचने तस्मिन् तूष्णीके तदुरोपमे । वचनं तच्छ्रोत्रियस्य वेदशास्त्रविनिश्चितम् ॥८४६।। संश्राव्य सर्वदा सर्वैः सर्वलोकोपकारकम् । ये वा विरोधिनस्तस्य ते सर्वे दण्डभागिनः॥८५०।। भवेयुरेव सततं मूढा वेदविरोधिनः । यत्करोति श्रोत्रियोऽसौ वचने नैव तत्परम् ॥८५१।। न तत्कतुं मूढशतं किं शक्त प्रभवेदहो। यो भुक्तिसमये मौात् ब्राह्मणानां समर्पितम् ।।८५२।। दत्तं तथा प्रोक्षितं च मन्त्रेण परिषेचितम् । विघातयेद्षयेद्वा पांसुभिर्भस्मभिर्मदा ॥८५३।। उच्छिष्टेन पुरीषेण तथा तं सद्य एव वै। ग्राहयित्वा विशेषेण निगलेन च संवृतम् ॥८५४॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy