________________
२६०६
कपिलस्मृतिः तस्यशक्तरानुगुण्यात् समं संप्रेक्ष्य धर्मतः । दण्डरूपेण कृत्वास्य पश्चात्तं मोचयेन्नृपः ।।८२२।। यो मन्येताजितोऽस्मीति न्यायेनैव पराजितः । तमायान्तं पुनर्जित्वा दापयेद्विगुणं दमम् ।।८२३।। सदस्यदूषकं तूष्णीं ग्रामदूषणतत्परम् । अनपेक्ष्यस्वापराधं स्वकार्यवृजिने तथा ॥८२४|| नृपतिर्धार्मिकः सद्यः पणानष्टशतं हरेत् । सकाशात्तस्य विधिना न चेहोषमवाप्नुयात् ।।८२।। समुद्दिश्यस्वकार्य यः तूष्णीकं वेद सर्वतः। अश्रोत्रियः स्वयं (तद्वत् ) सत्कर्मत्वेन विशेषतः ।।८२६।। विद्यमानो मन्यमानः स्वयमस्यैव केवलम् । सच्छ्रोत्रियाः समुद्वीक्ष्य विवादे सति केवलम् ।।८२७|| पूजाभोजनकालेषु स्वस्यानाह्वानकारणात् । तदुद्धवनिरोद्धारं कृतशापं तथाविधम् ॥८२८।। यत्नेनैवाहयित्वैनं सभामध्ये परीक्षया । न्यक्कृत्य विधिना सम्यक्छी(धिक् )कृत्यैव ततः पुनः।।८२६ नैतादृशमितः कर्म परं स्यात्तु त्वया भवेत् । इति भीत्या समायुक्त कृत्वैनं निश्चयेन वै ।।८३०॥ विंशोत्तरं शतपणान् हरेत्तस्मान्न संशयः । यो मुक्तिकाले विप्राणां स्वकामैकपुरस्कृतः ॥८३॥ निरोधं कुरुते मूढः तस्यदण्डश्चपेटिका । फ(प)णाःस्युादश पुनः उत्सवेषु पुनः किल ॥८३२।।