________________
२६०२
कपिलस्मृतिः भवेयुरेव नितरां मास्तु वंशस्य नोऽप्ययम् । इत्युक्त्वैनं दूषयन्ति नाङ्गीकुर्वन्ति तत्कृतम् ।।७७८।। प्रदूषयन्ति तं दृष्ट्वा पलायनकृतत्वराः। तहत्तं यच्च तत् सर्व वज्रपातोपमं खरम्(१) ॥७७६।। अङ्गीकुर्वन्ति तस्मात्तं पितरो ग्राहकस्य च । तस्मादेकसुतो दत्तो ग्राहकेण प्रदापितः ॥७८०॥ उभयोवंशयोश्चापि पितॄणां नरकप्रदः । तस्मादेकं सुतं दत्तपुत्रत्वेन कदाचन ॥७८॥ न स्वीकुर्यादतस्तेन न किंचितस्यात्प्रयोजनम् । तथा कनिष्ठं तनयं स्त्रीदत्तं वैधवं शिशुम् ।।७८२।। पुरुषेण प्रदत्तं वा कन्यावर्णियति (१) प्रदम् । ब्रात्यदत्तं सूतकिना प्रदत्तं कन्यया तथा ॥७८३॥ अनुवीतप्रदत्तं च सापत्नीमातृदत्तकम् । पितृव्यदत्तं तत्पल्या प्रदत्तं भगिनीप्रदम् ॥७८४॥ पितामहादिभिर्दत्तं ज्ञातिदत्तं सगोत्रिभिः । प्रदत्तं येन केनापि पुत्रत्वेन कथञ्चन ।।७८५।। न स्वीकुर्याच्छास्त्रदुष्टास्त एते तनया जडाः । प्रदातुहिकस्यापि महादुर्गतिदायकाः ॥७८६।। मामकस्तनयो जातस्तावकस्त्वधुना मम । संमत्यैवायमभवदिति वाक्येन तत्क्षणात् ॥७८७।। पुत्रनः प्रभवेत्सद्यः वीरहेति निगद्यते । तत्स्वीकर्ता भ्रूणहा स्यात् तहत्तो ब्रह्महा परः ॥७८८।।