________________
धर्मसेवनलाभः
२५६६ येन केनाप्युपायेन परं तद्ग्रहणोन्मुखाः । दुरालापान्प्रकुर्वन्तः सज्जनैरपि निन्दिताः ॥७४।। दूषयन्तश्च तान्भूयः छी( धिक् ) त्कृताश्चापि साधुभिः । न्यक्कृताः पण्डितैः सर्वैः सर्वत्रापि वृथैव हि ॥७४६।। तदुर्यनादिशतकं कुर्वन्तश्च तदा तदा । दुष्टक्रियाश्चकुर्वन्तो लयं यान्त्येव केवलम् ॥७४७॥ सर्वत्र धर्मोमध्यस्थः कदाचित्कलिदोषतः । न सिद्धयति कलौ भूयः सिद्धयत्यपि पुनः कचित् ॥७४८॥ प्रायेण धर्मतो वृद्धिः ततो भद्राणि विन्दति । व्यवहारे च जयति सन्तो व्याकुलयत्यपि ॥७४६।। परस्वान्यपि (दि) गृह्णाति समूलं च विनश्यति । सदैव धर्मः परमः सेव्यो नाधर्म उच्यते ॥७५०।। धर्ममार्गेण सर्वैरतैः गन्तव्यो नान्यमार्गतः। दौहित्रभिन्नं यं कंचित् विना ज्येष्ठ तथैककम् ।।७५१।। संगृह्णीयाच तनयं मध्यस्थं ज्ञातिमेव वा। भत्रभ्यनुज्ञाभिन्नायाभ्यनुज्ञा पुत्रसंग्रहे ॥७५२।। संगच्छते ज्ञात्यभावेतत्पुरस्तान्न युज्यते। ज्ञातिमत्याकृतं यत्तु पुत्रसंग्रहणादिकम् ॥७५३।। विश्वस्तया धरादान मुखकृत्स्नं तु सिद्धयति । सर्वज्ञातिमतं कार्य पुत्रसंग्रहणादिकम् ॥७५४।। धारादिकं च नो चेत्तत् न कायं यदि तत्कृतम् । तादृशं धार्मिको राजा न्यायशास्त्रप्रदूषितम् ॥७५।।